बिभेतेर् धातोः रपुर्वस्य च वी इत्येतस्य् यति प्रत्यये परतः छन्दसि विषये अयादेशः निपात्यते। भ्य्यं किलासीत्। वत्सतरी प्रवय्या। भय्येति कृत्यल्युटो बहुलम्
३।३।११३ इत्यपदाने यत् प्रत्ययः। बिभेत्यस्मादिति भ्य्यम्। प्रव्य्या इति स्त्रियाम् एव निपातनम्। अन्यत्र प्रवेयम् इत्येव भवति।
छन्दसि इति किम्? भेयम् प्रवेयम्। ह्रदय्या आप उपसङ्ख्यानम्। ह्रदय्या आपः। ह्रदे भवा, भवे छन्दसि
४।४।१०९ इति यत् प्रत्ययः।
"वी इत्येतस्य" इति। गतिप्रजनादिषु यो वी पठ()ते तस्य, "अजेव्र्यघञपोः"
२।४।५६ इत्यजेर्यो वी आदेशस्तस्य वा।
"ह्यदय्या आप उपसंख्यानम्()" इति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। ह्यदय्या हत्यस्य प्रतिपादनं कत्र्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्()--चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन ह्यदय्या इत्यपि भविष्यतीति॥